हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 124 – युद्धकाण्ड चतुर्विंशत्युत्तरशततमः सर्गः (१२४)
॥ पुष्पकोपस्थापनम् ॥
तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् ।
अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ १ ॥
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।
चन्दनानि च दिव्यानि माल्यानि विविधानि च ॥ २ ॥
अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः ।
उपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव ॥ ३ ॥
प्रतिगृह्णीष्व तत्सर्वं मदनुग्रहकाम्यया ।
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ॥ ४ ॥
हरीन्सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ।
स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ॥ ५ ॥
सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ।
तं विना केकयीपुत्रं भरतं धर्मचारिणम् ॥ ६ ॥
न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ।
इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् ॥ ७ ॥
अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ।
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ॥ ८ ॥
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ।
पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ॥ ९ ॥
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ।
हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ॥ १० ॥
त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम ।
तदिदं मेघसङ्काशं विमानमिह तिष्ठति ॥ ११ ॥
तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ।
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ॥ १२ ॥
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ १३ ॥
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ।
प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ॥ १४ ॥
सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ।
प्रणयाद्बहुमानाच्च सौहृदेन च राघव ॥ १५ ॥
प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ।
एवमुक्तस्ततो रामः प्रत्युवाच विभिषणम् ॥ १६ ॥
रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ।
पूजितोऽहं त्वया सौम्य साचिव्येन परन्तप ॥ १७ ॥
सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ।
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ॥ १८ ॥
तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।
मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ॥ १९ ॥
शिरसा याचतो यस्य वचनं न कृतं मया ।
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ॥ २० ॥
गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ।
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ॥ २१ ॥
कृतकार्यस्य मे वासः कथं स्विदिह सम्मतः ।
अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण ॥ २२ ॥
मन्युर्न खलु कर्तव्यस्त्वरितं त्वाऽनुमानये ।
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः ॥ २३ ॥
तं विमानं समादाय तूर्णं प्रतिनिवर्तत ।
ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् ॥ २४ ॥
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ।
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् ॥ २५ ॥
शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ।
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ॥ २६ ॥
घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ।
यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ॥ २७ ॥
बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसन्निभैः ।
तलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः ॥ २८ ॥
महार्हास्तरणोपेतैरुपपन्नं महाधनैः ।
उपस्थितमनाधृष्यं तद्विमानं मनोजवम् ।
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ २९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उद्धकाण्डे चतुर्विंशत्युत्तरशततमः सर्गः ॥ १२४ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.